प्रथम-शतके तृतीय-स्तबकः शुभ्र-स्मित-लेशो मातुर्मरुतान्नः | अन्तस्तिमिराणामन्तं विदधातु || १ आदौ भुवनानां मातापितरौ तौ | देवासुरमर्त्यैर्वन्द्यावविनन्द्यौ || २ ब्रूते पृथगेकस्तौ विग्रहवन्तौ | आहैक-शरीरं द्वन्द्वं कविरन्यः || ३ शक्तिं तनुशून्यामीशं च पुमांसम् | वक्तिप्रमदायां नासन्देहयुतोऽन्यः || ४ ईशं च तमेके सन्मात्रमुशन्ति | ब्रह्मैकमथाऽन्ये गायन्ति, न शक्तिम् || ५ केचित्तनुहीनं प्रज्ञायुतमीशं शक्तिं विदुरस्य प्रज्ञामविकुण्ठाम् || ६ उक्तं दधतस्तैः केचित्पुनराहुः | मायातनुबन्धं नाथस्य न शक्तेः| ७ नित्यं सशरीरौ येषां पितरौ तौ | एकोऽप्यथ वातान् प्रत्याह विसर्गः || ८ मातापितरौ, यत तावेकशरीरौ | चित्रप्रथनाथा, सा काचन लीला || ९ सन्मात्रकथानां कार्ये मनुजादौ! धीस्वान्तविकासः स्यात् कारणहीनः || १० अद्वैतिभिरन्या मायाश्रयणिया | शक्तेरतिरिक्ता साकिं किमु वादैः || ११ न स्यात् पृथगात्मा शक्तेः किमुपाधेः | चक्षुः श्रितचित्तेर्विश्वाकृतितावा || १२ एकान्त विदेहौ तौ चेदति-सूक्ष्मौ | लीलातनुबन्धा शक्तावभिधेयौ || १३ भक्तानुगृह्णन् दिव्याद्भुत लीलः | तद्विग्रहबन्धो बोध्योलसदर्धः || १४ स्त्रीत्वं यदि नेष्टं, पुंस्त्वं कुत इष्टम् | नाना किमु नारीनस्यादनुमेया || १५ तस्मात् पितरौ तौ, वाच्यौ मतिमन्तौ | सूक्ष्मावपि भूयो, लीलातनुमन्तौ || १६ नास्मत्तनुपत्ते शक्तीश्वर-मूर्ती | एकामृतरूपात्वन्या प्रणवात्मा || १७ दिव्यं घनतेजः कुर्वद् ध्वनिमन्तः | सम्पश्यदशेषं मूर्तिः प्रणवात्मा || १८ दिव्यो घनसोमः स्यंदन् रसमन्तः | भुञ्जन्भुवनौघं पीयूष शरीरम् || १९ बोधोऽनवलम्बो दिव्यं खलु तेजः | मोदः परिशुद्धो, दिव्यः खलु सोमः || २० सोमांशमहोंशौ यातोघनभावम् | पित्रोर्भुवनानां सङ्कल्प महिम्ना || २१ आरधयसीशं तं चिन्मयकायम् | आनन्दमयाङ्गी त्वम् देवि! किलेयम् || २२ दिव्यं तव कायं दिव्यं तव वस्त्रे | दिव्यानी तवाम्ब! स्वर्णाभरणानि || २३ यद्देवि विलोक्यास्य प्राकृतकाया | युक्तीः समतीता सेयं तव माया || २४ नव्यास्तनुमध्याः प्रत्नांतनुमध्याम् | विद्वत्सद-सीमाः सम्यक् प्रथयन्तु || २५ || इति उमासहस्रे तृतीय-स्तबकः ||