हर्तारः शशिकीर्तेः कर्तारो नवभासाम | भर्तारो ममसन्तु स्कन्दाम्बादरहासाः || १ दिग्वल्लीष्वति शुभ्रम कुर्वन्तः कुसुमर्थिम | भूयासुस्तव भूत्यै मन्मातुः स्मितलेशाः || २ एकश्चेत तवशक्तो ब्रह्माण्डस्य भवाय | भर्गप्रेयसि हासः किम स्तोत्रम तव भूयः.|| ३ उद्यानेवियदाख्ये कालि!त्वाम विहरन्तीम | गोलैः कन्दूककल्पै रल्पवाक किमुमाति.|| ४ खम क्रीडाभवन्ते, कः कार्यालय एषः | पृथ्वीयम बहुलान्ना मातर्भोजनशाला!|| ५ बुद्धीनामसि दात्री सिद्दीनामसि नेत्री | वीर्याणामसि पेटी काराणामसि धाटी || ६ विद्यानामसि भावो हृद्यानाम्सि हावः | देवानम्सि लीला दैत्यानामसि हेला.|| ७ गन्तॄओओणामसि चेष्टा स्थाणूनामसि निष्ठा | लोकानमसि मूलम लोकादेरसि जालम.|| ८ देवी, व्यापकतेजः शक्ति,स्तत्वविचारे | अत्यन्तम सुकुमारी नारी,मूर्ति विचारे || ९ क्वज्योतिर्महतोऽस्मा दाकाशादपि भूयः?| तत्सर्वम विनयन्ती तन्वङ्गीक्वनुनारी?|| १० देवेन्द्राय विभुत्वम सूर्यायोस्र सहस्रम | ऊष्माणाम दहनाय ज्योत्स्नामोषधिराजे.|| ११ वातायामित वीर्यम विस्तारम गगनाय | सान्द्रत्वम वसुधायै तोयाय द्रवभावम.|| १२ महाभाग्यमपारम कोटिभ्यो विबुधानाम | चित्राः काश्चन सिद्धी र्लक्षेभ्यो मनुजानाम .|| १३ स्थाणुभ्यो धृतिशक्तिम गन्तृभ्यो गतिशक्तिम | कस्माच्छिन्निजकोशा देका देवि ददाना .|| १४ आश्चर्यम विदधाना सर्वम वस्तुदधाना | हन्तत्वम मममातः! काचित कोमलगात्री.|| १५ श्रोणीभारनतायाम कस्याञ्चित्तनुगात्र्याम | ईदृक्षा यदिशक्तिः कावेतो ननुमाया !|| १६ रूपम ते -तनुगात्रम वाणी ते -मृदुनादा | चापम ते -मधुरेक्षुः पाणिस्ते -सुकुमारः || १७ लोले!लोचनयुग्मे भीरुत्वम प्रकटम ते | ब्रह्माण्डम त्वदधीनम श्रद्धत्तामिह कोवा.|| १८ भ्रूभङ्गम कुरुषेचे न्मुग्धे!गौरि!मुखाब्जे | भूतान्यप्ययिबिभ्य त्येजेरन्नपि ताराः.|| १९ शुद्धान्तेश्वरि!शम्भो रिच्छाचेत तवकाऽपि | घोरोऽग्निस्तृणगर्भाद घोराग्नेरपिशैत्यम.|| २० द्रष्टुम विश्वमपारम भारस्तेदयितस्य | कर्तुम कार्यमशेषम श्रीमातस्तवभारः || २१ साक्षी केवलमीशः कर्तुम भर्तुमुताहो | हर्तुम वाऽखिलमम्ब ! त्वम साक्षाद धृतदीक्षा.|| २२ कारङ्कारमुमे!यद ब्रह्माण्डानि निहम्सि | तन्मन्ये सुरमान्ये बालैवाम्ब!सदा त्वम ... २३ लीलोज्जीवितकामे ! रामे !शङ्करसक्ते !. त्वत पादार्चनसक्तम भक्तम माम कुरु शक्तम ... २४ एताः पावनगन्धाः सर्वेशप्रमदे !ते . हैरम्ब्योमदलेखाः सन्तोषायभवन्तु .. २५