१ तमसा मभितोहन्ता चन्डिकाहास वासरः
सतां हृदयराजीव विकासाय प्रकल्पताम ..
२ यानिद्रा सर्वभूतानां योगनिद्रारमापतेः
ईड्यतां सा महाकाली महाकालसखी सखे !
३ विरिञ्चिनास्तुते!मातः!कालि!त्वंचेन्न मुञ्चसि
मधुकैटभसंहारं करोतुकथमच्युतः ..
४ वासव,काशनीकाशयशो लङ्कृत दिङ्मुखः
महोग्रविक्रमाद यस्मादासीदाजौ पराङ्मुखः ..
५ यत प्रतापेन संतप्तो मन्येबाडबरूपभृत
भगवाननलोऽ द्यापि सिन्धुवासं नमुञ्चति ..
६ कुर्वाणो भूतकदनं यस्मिन विस्मितचेतसः
एष एवान्तकोनाऽ हमित्यासीदन्त कस्यधीः ..
७ रणे येनातिरस्कृत्य त्यक्तो राक्षस इत्यतः
चिरायहरिदीशेषु कोणेशः प्राप्तवान यशः ..
८ यन्नियन्तु मशक्तस्य कुर्वाण मसतीः क्रियाः
नियन्तु रसतामासीत पाशिनो मलिनम यशः ..
९ बाहुवीर्यपराभूतो यस्यप्रायेणमारुतः
बभूव क्षणदान्तेषु रतान्त परिचारकः ..
१० निधीन्येनजितोहित्वा राजराजः पलायितः .
स्पष्टंबभाण माधुर्यं प्राणानामखिलादपि ..
११ यस्मिन्नुत्तरपूर्वस्यादिश एकादशाधिपाः
कुण्ठाबभूवुरात्मीयकण्ठोपमितकीर्तयः ..
१२ निजशुद्धान्तकान्तानामाननैरेव निर्जितम
ललज्जेयःपुनर्जित्वाशूरमानी सुधाकरम ..
१३ बालस्येव क्रीडनकैः प्रवीरैर्यस्यखेलतः
लीलाकन्दुक धीरासीद्धेवे धीधिति मालिनि ..
१४ त्रियामाचरशुद्धान्त भ्रूविलास निवारणम .
विष्णोः सुदर्शनंचक्रं यस्यनापश्यदन्तरम ..
१५ महिषं तं महावीर्यं यासर्वसुरदेहजा
अवधीद्धानवन्तस्यै चण्डिकायै नमोनमः ..
१६ मुखं तवासेचनकं ध्यायं ध्यायं निरन्तरम
मृगेन्द्रवाहे कालेनमृडस्त्वन्मुखतांगतः ..
१७ कार्तिकीचन्द्रवदना कालिन्दीवीचिदोर्लता
अरुणाम्भोजचरणा जयतित्रिरुचिःशिवा ..
१८ यत्तेकच भरः कलो यद्बाहुर्लोकरक्षकः
युक्तं द्वयं शिवे मध्यस्त्वसन्नाको न नाकराट ..
१९ स्वदेहादेव या देवी प्रदीपादिव दीपिकआ
अविर्भभूवदेवानां स्तुवतां हर्तुमापदः ..
२० धैर्यचातुर्यगांभीर्यवीर्यसौन्दर्यशालिनीम
रत्नम नितम्बिनीजातौमेनरेयाम सुरासुराः ..
२१ यदीयहुङ्कृत्यनले धूम्राक्षोऽभवदाहुतिः .
समाप्तिं भीषणं यावन्नैवावापविकत्थनम ..
२२ यस्याःशूले जगामास्तं यशःशुम्भ-निशुम्भयोः
नमामि विमलश्लोकाम कौशिकीं नाम तामुमाम ..
२३ यशोदागर्भजननाद्यशोदां गोकुलस्यताम .
वन्दे भगवतीम नन्दां विन्ध्याचलनिवासिनीम ..
२४ चामुंडा शिवदूत्यौ . यत्यवेदारुणविक्रमे ..
भिक्षया मसतुःमूर्तीः. कीर्तिभिस्सह रक्षसाम ..
२५ अम्बिकामुपतिष्टन्तामेताश्चण्डीमनुष्टुभः .
प्रसन्नाःसाध्वलङ्काराःसिद्धपद्मेक्षणा इव ..