उद्दीपयतु नश्शक्तिमादिशक्तेर्दरस्मितम् | तत्त्वं यस्य महत्सूक्ष्ममानन्दोवेति संशयः || १ पूर्णं प्रज्ञातृ सद्ब्रह्म, तस्य ज्ञानं महेश्वरी | महिमातेज आहोस्विच्छक्तिर्वा प्राण एव वा || २ प्रचक्षते चिदात्मत्वं ज्ञातुर्ज्ञानस्य चोभयोः | प्रदीपस्य प्रभायाश्च ज्योतिराकृतितां यथा || ३ चित एकपदार्थत्वात् चिच्चितानविशिष्यते | तस्माद्गुणत्वं ज्ञानस्य शङ्करेण निराकृतम् || ४ ज्ञातुर्ज्ञानं स्वरूपं स्यान्नगुणो नापि च क्रिया | यदि स्वस्य स्वरूपेण वैशिष्ट्यमनवस्थितिः || ५ वा चैव शक्यते कर्तुं विभागस्स्वस्वरूपयोः | नानुभूत्या, ततो द्वैतं सच्छक्त्योर्व्यावहारिकम् || ६ ब्रह्मज्ञानस्य पूर्णस्य विषयोद्यौरुदीर्यते | सा ब्रह्मणो व्यापकत्वाद्वस्तुतो नातिरिच्यते|| ७ विकासादपि संकोचात् सर्गप्रलययोर्द्वयोः | प्रज्ञानस्य बुधैरुक्तौ जन्मनाशावुभौ दिवः || ८ धर्मभूतं परस्येदं नकार्यं परमं नभः | अखण्डत्वान्न विकृतिर्विश्वस्मिन् प्रकृतित्वतः || ९ आकाशे परमे दीप्यत् प्रज्ञानं परमात्मनः | एकाग्रत्वात् प्रवृद्धोष्मगभीरमभवन्महः || १० त्रिधैवं धर्मभूतस्य ज्ञानस्य विकृतिं विना | शुद्धत्व-विषयत्वाभ्यां महस्त्वाच्च दशात्रयम् || ११ विज्ञाने भाति ये भान्ति भावा द्रव्यगुणदयः | न किञ्चिदनुभूयन्ते विज्ञानो परमे तु ते || १२ एवं स्वतः प्रकाशत्वम् विषयाणां न दृश्यते | सिद्धिश्च परतो न स्यात् सम्बन्धं कञ्चिदन्तरा || १३ दृश्यते विषयाकारा ग्रहणे स्मरणे च धीः | प्रज्ञा-विषय-तादात्म्यमेवं साक्षात् प्रदृश्यते || १४ न चेत् समष्टि विज्ञान विभूतिरखिलं जगत् | विषयव्यष्टि विज्ञान तादात्म्यं नोपपद्यते || १५ यथाऽस्मदादि विज्ञाने ध्येयं बुद्धिरिति द्वयम् | पूर्णे समष्टि विज्ञाने विकृतिः प्रकृतिस्तथा || १६ परिणामो यथा स्वप्नः सूक्ष्मस्य स्तूलरूपतः | जाग्रत् प्रपञ्च एष स्यात्तथेश्वर महाचितः || १७ विकृतिस्सर्वभूतानि प्रकृतिः परदेवता | सतः पादस्तयोराद्या त्रिपादी गीयते परा || १८ कबलीकृत्य सङ्कल्पानेकाऽपि स्याद् यथा मतिः | भूतानि कबलीकृत्य देवतापि तथा परा || १९ भूतानामात्मानस्सर्गे संहृतौ च तथात्मनि | प्रभवेद्देवता श्रेष्ठा सङ्कल्पानां यथामतिः || २० अनुभूत्यात्मिका सेयमीशशक्तिः परात्परा | आधारचक्रे पिण्डेषु विराजति विभिन्नवत् || २१ सूक्ष्मस्तूले ततः शाखेविद्युत्च्चक्ति समीरवत् | तत्राद्या ज्ञानशक्तिस्स्यात् क्रियाशक्तिरनन्तरा || २२ ज्ञानेन्द्रियाणि प्रथमा विभूतिर्मनसा सह | कर्मेन्द्रियाणि त्वपराविभूतिस्सहसा सह || २३ क्रियामूलमुत ज्ञानमूलं किमिति चिन्तयन् | आत्मशक्तिमितो विद्वानमृतत्वाय कल्पते || २४ गभीरास्सुतरामेताः कालिका-तत्त्व-कारिकाः | धियोभासोगणपतेर्भवन्तु विदुषां मुदे || २५